गुरुवार, 7 नवंबर 2013

चतुरः काकः



चतुरः काकः

एकस्मिन् वने एकः काकः वसति स्म।एकदा सः रोटिकाखण्डं गृहित्वा वृक्षस्य शाखायाम् उपविष्टवान्।सः आनन्देन रोटिकां खादितुम् आरब्धवान्।
     एकः शृगालः तत्र एव आसीत्।सः काकस्य मुखे रोटिकां दृष्ट्वा लुब्धः भवति।सः येनकेनप्रकारेण रोटिकाखण्डं प्राप्तुम् इच्छति ।सः काकं वदति-भो काक ! भवान् अतिसुन्दरः पक्षी अस्ति। तव स्वरः अपि अतिमधुरः भवति।कृपया एकं गीतं गायतु भवान्।
           काकः शृगालस्य वचनं श्रुत्वा आनंदितः भवति।रोटिकखण्डं पादयोः स्थापयित्वा वदति-भो श्रुगालः! अहं जानामि अह्ं सुन्दर्ं गातुं न शक्नोमि। गताः ते दिवसाः अधुना अहं मूर्खः नास्मि ।अहं तर्हि किञ्चित् गायामि। एतद् श्रुत्वा काकः लज्जितः भूत्वा ततः पलायितवान्।

रविवार, 13 अक्टूबर 2013

भक्षकाद् रक्षकः श्रेयान्


 भक्षकाद् रक्षकः श्रेयान्

 

एकदा राजकुमारः सिद्धार्थः विहारार्थम् उपवनं गतः ।बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत् ।एतद् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम् ।सः धावित्वा हंसस्य शरीरात् बाणं निष्कास्य नमङ्के अधारयत् ।अत्रान्तरे देवदत्तः धावन् प्राप्तः ।सिद्धार्थस्य हस्ते हंसं दृष्ट्वा सः उच्चैः अवदत्,सिद्धार्थ! एषःमया बाणेन निपतितः,अतः मह्यं देहि । सिद्धार्थःदृढतया अवदत्,"अहं न दास्यामि ।अहम् अस्य रक्षकः अस्मि ।राजा सर्वं वृत्तांन्तं आकर्ण्य आदिशत् ,"यस्य समीपं हसः गमिष्यति तस्यैव भविष्यति ।"हंसः सिद्धार्थस्य समीपं गतवान् ।सत्यमिदं-भक्षकाद् रक्षकः श्रेयान् अस्ति ।

शनिवार, 12 अक्टूबर 2013

"अति सर्वत्र वर्जयेत् ”


सोमशर्मापितुः कथा अथवा "अति सर्वत्र वर्जयेत् ”

एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत् । तस्य नाम धनपालः आसीत् । सः प्रतिदिनं भिक्षायै ग्रामं ग्रामं प्रति भ्रमति स्म । भिक्षायां प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत् । सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः खट्वायां शयनं करोति स्म, शयनकाले च निरन्तरम् एकदृष्ट्या घटं पश्यति स्म ।
सः एकदा रात्रौ एवम् अचिन्तयत् – मम अयं घटः सक्तुभिः पूर्णः अस्ति । यदा दुर्भिक्ष्यं भविष्यति तदा सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि । ततः तेन धनेन अहम् अजाद्वयस्य क्रयं करिष्यामि । अजाद्वयस्य शिशुभिः अजानां समूहः मम समीपे भविष्यति । अजानां विक्रयेण गवां, महिषीणां, अश्वानां च क्रयं करिष्यामि, तासां शिशुभिः बहवः पशवः भविष्यन्ति । तेषां विक्रयेण मम पार्श्वे बहूनि धनानि आगमिष्यन्ति । धनेन विशालस्य भवनस्य निर्माणं कारयिष्यामि । तदा मां धनिकं मत्वा कोऽपि रूपवतीं कन्यां मह्यं प्रदास्यति। ततः मम पुत्रः भविष्यति । तस्य नाम सोमशर्मा इति करिष्यामि। कदाचित् क्रीडन् सः पुत्रः मम समीपम् आगमिष्यति। तदा कुपितः अहं स्वपत्नीं वदिष्यामि – “गृहाण एनं बालकम्।” सा गृहकार्ये संलग्ना मम वचनं यदा न श्रोष्यति तदा अहं पत्न्याः उपरि पादेन प्रहरिष्यामि।
एवं स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत्। तेन सक्तुपूरितः घटः भूमौ पतितः भग्नः च अभवत्। भग्नेन घटेन सह एव तस्य मनोरथाः अपि भग्नाः अभवन् । अतः युक्तमेव उक्तं “अतिस्वप्नरञ्जनं किमर्थम्। अति सर्वत्र वर्जयेत् ।”

शनिवार, 21 सितंबर 2013

उपायेन सर्वं सिद्ध्यति

उपायेन सर्वं सिद्ध्यति

             एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म | तस्य वृक्षस्य एकः सर्पः अपि अवसत् |काकानां अनुपस्थितौ सः काकानां शिशून खादति स्म | काकाः दुःखिताः आसन् | तेषु एकः वृद्धः काकः उपायं अचिन्तयत् | वृक्षस्य समीपे जलाशयः आसीत् | तत्र एका राजकुमारी स्नातुं आगच्छति| शिलायां स्थितं तस्याः आभरणं आदाय एकः काकः वृक्षस्य उपरि अस्थापयत् | राजसेवकाः काकं अनुसृत्य वृक्षस्य समीपम्  अगच्छत् | तत्र ते तं सर्पं च अमारयत् | अतः एव उक्तं-उपायेन सर्वं सिद्ध्यति 

शनिवार, 14 सितंबर 2013

एकतायाः बलम्

 एकतायाः बलम् 


एकस्मिन् वने एकः विशालः वृक्षः आसीत्  | तस्मिन् बहवः खगाः वसन्ति स्म |एकदा ते अतीव बुभुक्षिताः आसन् |अतः भोजनं खादितुं एतस्ततः  अभ्रमन्  | ते दूरं दूरं अगच्छन्  |अन्ते एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन् |ते तत्र गत्वा सुखेन तण्डुलकणान् अखादयन् |किन्तु तत्र पूर्वमेव व्याधेन जालम् अपातयत् |अतः ते सर्वे जालेन बद्धाः अभवन् |अधुना किं करणॆतम् एति चिन्तयित्वा ते सर्वे जालेन सह एव तेषां मित्रं प्रति उपागच्छन् |तेषां मित्रं एकः मूषकः आसीत्  |सः जालः दन्तैः अकर्तयत् |अन्ते सर्वे स्वतन्त्राः भूत्वा अत्र तत्र सुखेन उड्डयन्ति स्म |

पिपासितः काकः

पिपासितः काकः 

अथ एकदा एकः काकः अतिपिपासितः आसीत्  | सः जलं पातुम् इतस्ततः अभ्रमत् | परं कुत्रापि जलं न प्राप्नोत् | अन्ते सः एकं घटम्  अपश्यत् | घटे स्वल्पं जलम्  आसीत्  | अतः सः जलं पातुम् असमर्थः अभवत् | सः एकम्  उपायम्  अचिन्तयत्  | सः पाषाणस्य खण्डानि घटे अक्षिपत् | एवं क्रमेण घटस्य जलं उपरि आगच्छत् | काकः जलं पीत्वा सन्तुष्टः अभवत् | परिश्रमेण एव कार्याणि सिध्यन्ति न मनोरथैः |

शुक्रवार, 13 सितंबर 2013

दुर्जनसंगतिः नाशयति

दुर्जनसंगतिः नाशयति


एकस्मिन् सरोवरे एकः हंसः एकः काकः च निवसतः | एकदा एकः पथिकः  आतपे परिश्रान्तः वृक्षस्य अधः स्वस्य धनुर्बाणं समीपे निधाय निद्राम् गतः | अनन्तरं वृक्षच्छाया तस्य मुखात् अपगता | तस्य मुखं आतपेन तप्तं अवलोक्य वृक्षस्थितेन हंसेन पक्षौ प्रसारितौ | अनन्तरं पथिकः मुखम्  उद् घाटयति | परसुखम्  असहिष्णुः  काकः तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः | पथिकः सत्वरं उपरि पश्यति | सः चिन्तयति-एषा हंसस्य एव कृतिः | सः स्वस्य बाणेन हंसं मारयति |