शनिवार, 12 अक्टूबर 2013

"अति सर्वत्र वर्जयेत् ”


सोमशर्मापितुः कथा अथवा "अति सर्वत्र वर्जयेत् ”

एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत् । तस्य नाम धनपालः आसीत् । सः प्रतिदिनं भिक्षायै ग्रामं ग्रामं प्रति भ्रमति स्म । भिक्षायां प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत् । सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः खट्वायां शयनं करोति स्म, शयनकाले च निरन्तरम् एकदृष्ट्या घटं पश्यति स्म ।
सः एकदा रात्रौ एवम् अचिन्तयत् – मम अयं घटः सक्तुभिः पूर्णः अस्ति । यदा दुर्भिक्ष्यं भविष्यति तदा सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि । ततः तेन धनेन अहम् अजाद्वयस्य क्रयं करिष्यामि । अजाद्वयस्य शिशुभिः अजानां समूहः मम समीपे भविष्यति । अजानां विक्रयेण गवां, महिषीणां, अश्वानां च क्रयं करिष्यामि, तासां शिशुभिः बहवः पशवः भविष्यन्ति । तेषां विक्रयेण मम पार्श्वे बहूनि धनानि आगमिष्यन्ति । धनेन विशालस्य भवनस्य निर्माणं कारयिष्यामि । तदा मां धनिकं मत्वा कोऽपि रूपवतीं कन्यां मह्यं प्रदास्यति। ततः मम पुत्रः भविष्यति । तस्य नाम सोमशर्मा इति करिष्यामि। कदाचित् क्रीडन् सः पुत्रः मम समीपम् आगमिष्यति। तदा कुपितः अहं स्वपत्नीं वदिष्यामि – “गृहाण एनं बालकम्।” सा गृहकार्ये संलग्ना मम वचनं यदा न श्रोष्यति तदा अहं पत्न्याः उपरि पादेन प्रहरिष्यामि।
एवं स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत्। तेन सक्तुपूरितः घटः भूमौ पतितः भग्नः च अभवत्। भग्नेन घटेन सह एव तस्य मनोरथाः अपि भग्नाः अभवन् । अतः युक्तमेव उक्तं “अतिस्वप्नरञ्जनं किमर्थम्। अति सर्वत्र वर्जयेत् ।”

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें