शनिवार, 21 सितंबर 2013
शनिवार, 14 सितंबर 2013
एकतायाः बलम्
एकतायाः बलम्
एकस्मिन् वने एकः विशालः वृक्षः आसीत् | तस्मिन् बहवः खगाः वसन्ति स्म |एकदा ते अतीव बुभुक्षिताः आसन् |अतः भोजनं खादितुं एतस्ततः अभ्रमन् | ते दूरं दूरं अगच्छन् |अन्ते एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन् |ते तत्र गत्वा सुखेन तण्डुलकणान् अखादयन् |किन्तु तत्र पूर्वमेव व्याधेन जालम् अपातयत् |अतः ते सर्वे जालेन बद्धाः अभवन् |अधुना किं करणॆतम् एति चिन्तयित्वा ते सर्वे जालेन सह एव तेषां मित्रं प्रति उपागच्छन् |तेषां मित्रं एकः मूषकः आसीत् |सः जालः दन्तैः अकर्तयत् |अन्ते सर्वे स्वतन्त्राः भूत्वा अत्र तत्र सुखेन उड्डयन्ति स्म |
पिपासितः काकः
पिपासितः काकः
अथ एकदा एकः काकः अतिपिपासितः आसीत् | सः जलं पातुम् इतस्ततः अभ्रमत् | परं कुत्रापि जलं न प्राप्नोत् | अन्ते सः एकं घटम् अपश्यत् | घटे स्वल्पं जलम् आसीत् | अतः सः जलं पातुम् असमर्थः अभवत् | सः एकम् उपायम् अचिन्तयत् | सः पाषाणस्य खण्डानि घटे अक्षिपत् | एवं क्रमेण घटस्य जलं उपरि आगच्छत् | काकः जलं पीत्वा सन्तुष्टः अभवत् | परिश्रमेण एव कार्याणि सिध्यन्ति न मनोरथैः |शुक्रवार, 13 सितंबर 2013
दुर्जनसंगतिः नाशयति
दुर्जनसंगतिः नाशयति
एकस्मिन् सरोवरे एकः हंसः एकः काकः च निवसतः | एकदा एकः पथिकः आतपे परिश्रान्तः वृक्षस्य अधः स्वस्य धनुर्बाणं समीपे निधाय निद्राम् गतः | अनन्तरं वृक्षच्छाया तस्य मुखात् अपगता | तस्य मुखं आतपेन तप्तं अवलोक्य वृक्षस्थितेन हंसेन पक्षौ प्रसारितौ | अनन्तरं पथिकः मुखम् उद् घाटयति | परसुखम् असहिष्णुः काकः तस्य मुखे पुरीषोत्सर्गं कृत्वा पलायितः | पथिकः सत्वरं उपरि पश्यति | सः चिन्तयति-एषा हंसस्य एव कृतिः | सः स्वस्य बाणेन हंसं मारयति |
सदस्यता लें
संदेश (Atom)