रविवार, 13 अक्टूबर 2013

भक्षकाद् रक्षकः श्रेयान्


 भक्षकाद् रक्षकः श्रेयान्

 

एकदा राजकुमारः सिद्धार्थः विहारार्थम् उपवनं गतः ।बाणेन विद्धः एकः हंसः भूमौ पतितः आसीत् ।एतद् दृष्ट्वा सिद्धार्थस्य चित्तं करुणया व्याकुलं जातम् ।सः धावित्वा हंसस्य शरीरात् बाणं निष्कास्य नमङ्के अधारयत् ।अत्रान्तरे देवदत्तः धावन् प्राप्तः ।सिद्धार्थस्य हस्ते हंसं दृष्ट्वा सः उच्चैः अवदत्,सिद्धार्थ! एषःमया बाणेन निपतितः,अतः मह्यं देहि । सिद्धार्थःदृढतया अवदत्,"अहं न दास्यामि ।अहम् अस्य रक्षकः अस्मि ।राजा सर्वं वृत्तांन्तं आकर्ण्य आदिशत् ,"यस्य समीपं हसः गमिष्यति तस्यैव भविष्यति ।"हंसः सिद्धार्थस्य समीपं गतवान् ।सत्यमिदं-भक्षकाद् रक्षकः श्रेयान् अस्ति ।

शनिवार, 12 अक्टूबर 2013

"अति सर्वत्र वर्जयेत् ”


सोमशर्मापितुः कथा अथवा "अति सर्वत्र वर्जयेत् ”

एकस्मिन् ग्रामे कश्चित् निर्धनः युवकः आसीत् । तस्य नाम धनपालः आसीत् । सः प्रतिदिनं भिक्षायै ग्रामं ग्रामं प्रति भ्रमति स्म । भिक्षायां प्राप्तैः सक्तुभिः तस्य घटः पूर्णः अभवत् । सः घटं नागदन्ते अवलम्ब्य तस्य नीचैः खट्वायां शयनं करोति स्म, शयनकाले च निरन्तरम् एकदृष्ट्या घटं पश्यति स्म ।
सः एकदा रात्रौ एवम् अचिन्तयत् – मम अयं घटः सक्तुभिः पूर्णः अस्ति । यदा दुर्भिक्ष्यं भविष्यति तदा सक्तु-विक्रयेण प्रचुरं धनं प्राप्स्यामि । ततः तेन धनेन अहम् अजाद्वयस्य क्रयं करिष्यामि । अजाद्वयस्य शिशुभिः अजानां समूहः मम समीपे भविष्यति । अजानां विक्रयेण गवां, महिषीणां, अश्वानां च क्रयं करिष्यामि, तासां शिशुभिः बहवः पशवः भविष्यन्ति । तेषां विक्रयेण मम पार्श्वे बहूनि धनानि आगमिष्यन्ति । धनेन विशालस्य भवनस्य निर्माणं कारयिष्यामि । तदा मां धनिकं मत्वा कोऽपि रूपवतीं कन्यां मह्यं प्रदास्यति। ततः मम पुत्रः भविष्यति । तस्य नाम सोमशर्मा इति करिष्यामि। कदाचित् क्रीडन् सः पुत्रः मम समीपम् आगमिष्यति। तदा कुपितः अहं स्वपत्नीं वदिष्यामि – “गृहाण एनं बालकम्।” सा गृहकार्ये संलग्ना मम वचनं यदा न श्रोष्यति तदा अहं पत्न्याः उपरि पादेन प्रहरिष्यामि।
एवं स्वप्नेन प्रेरितः सः पादप्रहारम् अकरोत्। तेन सक्तुपूरितः घटः भूमौ पतितः भग्नः च अभवत्। भग्नेन घटेन सह एव तस्य मनोरथाः अपि भग्नाः अभवन् । अतः युक्तमेव उक्तं “अतिस्वप्नरञ्जनं किमर्थम्। अति सर्वत्र वर्जयेत् ।”