चतुरः काकः
एकस्मिन् वने एकः काकः
वसति स्म।एकदा सः रोटिकाखण्डं गृहित्वा वृक्षस्य शाखायाम् उपविष्टवान्।सः आनन्देन रोटिकां
खादितुम् आरब्धवान्।
एकः शृगालः तत्र एव आसीत्।सः काकस्य मुखे रोटिकां
दृष्ट्वा लुब्धः भवति।सः येनकेनप्रकारेण रोटिकाखण्डं प्राप्तुम् इच्छति ।सः काकं वदति-भो
काक ! भवान् अतिसुन्दरः पक्षी अस्ति। तव स्वरः अपि अतिमधुरः भवति।कृपया एकं गीतं गायतु
भवान्।
काकः शृगालस्य वचनं
श्रुत्वा आनंदितः भवति।रोटिकखण्डं पादयोः स्थापयित्वा वदति-भो श्रुगालः! अहं जानामि
अह्ं सुन्दर्ं गातुं न शक्नोमि। गताः ते दिवसाः अधुना अहं मूर्खः नास्मि ।अहं तर्हि
किञ्चित् गायामि। एतद् श्रुत्वा काकः लज्जितः भूत्वा ततः पलायितवान्।